न लभ्यते चेत् आम्लं द्राक्षाफलम्

 न लभ्यते चेत् आम्लं द्राक्षाफलम्
वयम् अभ्यासं कुर्मः
 
1. एकः शृगालः इति गीतस्य साभिनयं   कक्षायां गानं कुर्वन्तु।
 
उत्तर: -  छात्रा: स्वयं कुर्वन्तु ।
 
2. एकपदेन वा द्विपदेन उत्तर लिखिए
 
(नीचे दिए गए प्रश्नों के संक्षिप्त उत्तर लिखिए)
 
(क) कः वनं गच्छति?      ===      शृगालः 
 
(ख) शृगालः कां पश्यति? === द्राक्षालताम्।
 
(ग) शृगालस्य मुखे किं जायते? ===  रस:/  लालसा।
 
(घ) शृगालः किं पश्यति? ====    द्राक्षाफलम्।
 
(ङ) द्राक्षाफलं कुत्र दृश्यते? ======  लतासु उपरि
 
(च) किं शृगालः पुनः पुनः उत्पतति? (आम्/न)    ====  आम्।
 
(छ) किं शृगालः द्राक्षाफलं प्राप्नोति? (आम्/न) ==   न।
 
3. पूर्ण वाक्य में उत्तर लिखिए
 
(नीचे दिए प्रश्नों के उत्तर स्पष्ट वाक्य रूप में दीजिए)
 
(क) शृगालः कथं वनं गच्छति?
 
शृगालः पिपासया बुभुक्षया वनं गच्छति।
 
(ख) वनं गत्वा शृगालस्य किं जायते?
 
वनं गत्वा शृगालः श्रान्तः जायते, खिन्नः च जायते।
 
(ग) शृगालः  द्राक्षाफलं कुत्र पश्यति?
 
शृगालः वामतः, दक्षिणतः, अग्रतः, पृष्ठतः पश्यति, विशेषतः लतासु उपरि द्राक्षाफलं पश्यति।
 
(घ) द्राक्षाफलं दृष्ट्वा कस्य मुखे रसः जायते?
 
द्राक्षाफलं दृष्ट्वा शृगालस्य मुखे रसः जायते।
 
(ङ) अन्ते शृगालः किं वदति?
 
अन्ते शृगालः वदति “आम्लं द्राक्षाफलम्, आम्लं द्राक्षाफलम्” तथाऽपश्चात् पलायते। 
 
प्रश्न ४: उपरि प्रदत्तां मञ्जूषां दृष्ट्वा रिक्तस्थानेषु उचितक्रियापदानि  लिखन्तु ।
 
(क) वन्दते (वन्द् आत्मनेपदी क्रिया)
 
पुरुष / वचन-  एकवचन द्विवचन बहुवचन
 
प्रथम पुरुष  वन्दते वन्देते वन्दन्ते
 
मध्यम पुरुष  वन्दसे वन्देथे वन्दध्वे
 
उत्तम पुरुष  वन्दे वन्दावहे वन्दामहे 
 
(ख) पलायते (पलाय् आत्मनेपदी क्रिया)
 
पुरुष / वचन एकवचन द्विवचन बहुवचन
 
प्रथम पुरुष पलायते पलायेते पलायन्ते
 
मध्यम पुरुष पलायसे पलायेथे पलायध्वे
 
उत्तम पुरुष पलाये पलायावहे पलायामहे
 
(ग) जायते (जन् आत्मनेपदी क्रिया)
 
पुरुष / वचन एकवचन द्विवचन बहुवचन
 
प्रथम पुरुष जायते जायेते जायन्ते
 
मध्यम पुरुष जायसे जायेथे जायध्वे
 
उत्तम पुरुष जाये जायावहे जायामहे 
 
 प्रश्न ५ – उदाहरणानुसारम् एकवचनरूपं दृष्ट्वा द्विवचन–बहुवचनरूपाणि लिखत।
 
धातुः एकवचनम् द्विवचनम् बहुवचनम्
 
कम्प्-  कम्पते कम्पेते कम्पन्ते
 
वर्ध्- वर्धते वर्धेते वर्धन्ते
 
वृत्- वर्तते वर्तेते वर्तन्ते
 
प्रकाश्- प्रकाशते प्रकाशेते प्रकाशन्ते
 
वन्द्- वन्दे वन्देथे वन्दध्वे
याच्- याचते याचेते याचन्ते
 
लज्- लजसे लजेथे लजध्वे
 
वीक्ष्- वीक्षते वीक्षेते वीक्षन्ते
 
सेव्- सेवते सेवेते सेवन्ते
 
वन्द्- वन्दसे वन्देथे वन्दध्वे
 
शुभ्-  शोभते शोभेते शोभन्ते
 
 
प्रश्न 6: उदाहरणानुसार वाक्यम्  लिखत।
 
यथा – शत्रुः (पलाय) शत्रुः पलायते
चोरा: (पलाय) चोरा: पलायन्ते
 
(क)  वृक्षः (वर्ध) वृक्षा: वर्धन्ते
बालाः (वर्ध) बालाः वर्धन्ते
(ख) छात्रा: (वन्द) छात्रा: वन्दन्ते
 
भक्ताः (वन्द)- भक्ताः वन्दन्ते
 
(ग) वैद्य: (वीक्ष) वैद्य: वीक्षते
 
प्रेषकाः (वीक्ष) - प्रकषकाः वीक्षन्ते
 
(घ) कर्मचारी (सेव) कर्मचारी सेवते
 
महिला (सेव)- महिलाः सेवन्ते
 
(ङ) वृक्ष: (कम्प) वृक्ष: कम्पते
 
रुग्णाः (कम्प)- रुग्णाः 'कम्पन्ते
प्रश्न 7: उदाहरणं दृष्ट्वा वाक्यानि उचितरूपेण पूरयन्तु —
 
(क) शुनकं दृष्ट्वा बालकस्य भयम् जायते।
 
(ख) मूकः मार्जारं दृष्ट्वा पलायते।
 
(ग) रात्रिकाले मार्गदीपाः प्रकाशन्ते।
 
(घ) अहं देवं वन्दे।
 
(ङ) त्वं किमर्थं लज्जसे?
 
(च) वयं देशं सेवामः।
 

Popular posts from this blog

Learner's Diary

भारतीय ज्ञान परंपरा ओलंपियाड 2025 Indian Knowledge System Olympiad 2025