संन्निमित्ते वरं त्यागः – ख
📝 वयम् अभ्यासं कुर्मः
सन्निमित्ते वरं त्यागः (ख-भागः)
अभ्यासात् जायते सिद्धिः (पृष्ठ 131–135)
१. निम्नलिखितेषु वाक्येषु
रक्तवर्णीयानि स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) वीरवरो पत्नीं पुत्रं दुहितरञ्च प्राबोधयत् ।
उत्तरम् : क: पत्नीं पुत्रं दुहितरञ्च
प्राबोधयत् ?
(ख) ततस्ते सर्वे
सर्वमङ्गलायाः आयतनं गताः ।
उत्तरम् : ततस्ते सर्वे कस्याः आयतनं
गताः?
(ग) वीरवरः
वर्तनस्य निस्तारं पुत्रोत्सर्गेण अकरोत्।
उत्तरम् : वीरवरः वर्तनस्य निस्तारं
केन / कथम् अकरोत् ?
(घ) राजा
स्वप्रासादं प्राविशत् ।
उत्तरम् : राजा कुत्र प्राविशत् ?
(ङ) महीपतिः
वीरवराय समग्रकर्णाटप्रदेशम् अयच्छत्।
उत्तरम् : महीपतिः कस्मै समग्र
कर्णाटप्रदेशम् अयच्छत्?
२. अधोलिखितान् प्रश्नान्
उत्तरत-
(क) वीरवरः किम् अवर्णयत् ?
उत्तरम् : वीरवर :
अखिलराजलक्ष्मीसंवादम् अवर्णयत्।
(ख) प्राज्ञः
धनानि जीवितञ्च केभ्यः उत्सृजेत् ?
उत्तरम् : प्राज्ञः धनानि जीवितं च
परार्थेभ्यः उत्सृजेत् |
(ग) केन सदृशः
लोके न भूतो न भविष्यति ?
उत्तरम् : वीरवरेण सदृशः लोके न भूतो न
भविष्यति ।
(घ) का अदृश्या
अभवत्?
उत्तरम् : भगवती सर्वमङ्गला अदृश्या अभवत्।
(ङ) सपरिवारः
वीरवरः कुत्र गतवान्?
उत्तरम् : सपरिवारः वीरवरः स्वगृहं
गतवान्।
३. अधोलिखितेषु वाक्येषु
रक्तवर्णीयपदानि केभ्यः प्रयुक्तानि इति उदाहरणानुगुणं लिखत- उदाहरणम्-धन्यः अहम्
स्वामिजीवितरक्षार्थं विनियुक्तः । – शक्तिधराय
(क) भगवति ! न मे प्रयोजनं राज्येन जीवितेन वा ।
उत्तरम् : नृपाय / राज्ञे
(ख) वत्स! अनेन
ते सत्त्वोत्कर्षेण भृत्यवात्सल्येन च परं प्रीतास्मि ।
उत्तरम् : नृपाय / राज्ञे
(ग) धन्याहं
यस्या ईदृशो जनको भ्राता च ।
उत्तरम् : वीरवत्यै
(घ)
तदेतत्परित्यक्तेन मम राज्येनापि किं प्रयोजनम् ।
उत्तरम् : नृपस्य/शूद्रकाय/राज्ञे
(ङ) अयम् अपि
सपरिवारो जीवतु ।
उत्तरम् : वीरवराय/राजपुत्राय ।
४. उदाहरणानुसारं अन्वयरूपेण
लिखत-
यथा- कृतो मया
गृहीतस्वामिवर्तनस्य निस्तारो स्वपुत्रोत्सर्गेण ।
गृहीतस्वामिवर्तनस्य निस्तारो मया
स्वपुत्रोत्सर्गेण कृतः ।
(क) नेदानीं
राज्यभङ्गस्ते भविष्यति ।
उत्तरम् : इदानीं ते राज्यभङ्गः न भविष्यति ।
(ख) तेन पातितं
स्वशिरः स्वकरस्थखड्गेन।
उत्तरम् : तेन स्वकरस्थखड्गेन स्वशिरः
पातितम्।
(ग) तदा ममायुः
शेषेणापि जीवतु राजपुत्रो वीरवरः सह पुत्रेण पत्न्या दुहित्रा च ।
उत्तरम् : तदा ममायुः
शेषेणापि राजपुत्रो वीरवरः पुत्रेण पत्न्या दुहित्रा च सह जीवतु ।
(घ) तत्क्षणादेव
देवी गताऽदर्शनम् ।
उत्तरम् : तत् क्षणात् एव देवी अदर्शनम् गता।
(ङ)
महीपतिस्तस्मै प्रायच्छत् समग्रकर्णाटप्रदेशं राजपुत्राय वीरवराय ।
उत्तरम् : महीपति:
तस्मै राजपुत्राय वीरवराय समग्रकर्णाटप्रदेशं प्रायच्छत् ।
(च) जायन्ते च
म्रियन्ते च मादृशाः क्षुद्रजन्तवः।
उत्तरम् : मादृशाः क्षुद्रजन्तवः
जायन्ते मिय्रन्ते च।
५. उदाहरणानुगुणम् अधोलिखितानां
पदानां पदच्छेदं कुरुत-
यथा-यद्येवमस्मत्कुलोचितम् = यदि-एवम्-अस्मत्-कुलोचितम्
सत्त्वोत्कर्षेण = सत्त्व-उत्कर्षेण
(क)
गृहीतस्वामिवर्तनस्य = _ गृहीत –
स्वामि-वर्तनस्य __
(ख) निस्तारोपायः = _ निस्तार – उपायः __
(ग) गृह्यतामेष = __ गृह्यताम्-एषः__
(घ) स्वपुत्रोत्सर्गेण = __ स्वपुत्र – उत्सर्गेण __
(ङ) स्वकरस्थखड्गेन = __ स्वकरस्थ-खड्गेन__
(च) तदेतत्परित्यक्तेन = __ तत्-एतत्-परित्यक्तेन _
(छ) स्वशिरश्छेदनार्थमुत्क्षिप्तः = __ स्वशिरः-छेदनार्थम्-उत्क्षिप्तः __
(ज) मद्दर्शनाददृश्यताम् = __ मत्-दर्शनात् – अदृश्यताम् __
(झ) तत्क्षणादेव = __ तत्-क्षणात्-एव__
(ञ) लब्धजीवितः = __ लब्ध-
जीवितः __
६. (क) उदाहरणानुगुणं पाठगतानि
पदानि अधिकृत्य सन्धियुक्तपवैः रिक्तस्थानानि पूरयत- यथा-स्व
+ आवासम् = स्वावासम्
1. तत् + श्रुत्वा = _तच्छ्रुत्वा
2. दुहितरम् + च = __ दुहितरञ्च
3. धन्यः + अहम्
= __ धन्योऽहम्
4. जीवितम् + च + एव = _ जीवितञ्चैव
5. विलम्बः + तात = __ विलम्बस्तात
6. कः + अधुना = __ कोऽधुना
7. न + आचरितव्यम् = __ नाचरितव्यम्
8. धन्या + अहम् = __ धन्याहं
9. निस्तारः +
उपायः =--निस्ताररुपाय
10. वीरवरः + अवदत् = _वीरवरोऽवदत्
11. ततः + असौ = __ततोऽसौ
12. ततः + ते = _ ततस्ते
(ख)
निम्नलिखितपदानां सन्धिच्छेदं कुरुत-
1. शूद्रकोऽपि = शूद्रक : + अपि
2. पुनर्भूपालेन
= पुनः + भूपालेन
3. महीपतिस्तस्मै = महीपालः + तस्मै
4.
प्रायच्छत् = प्र + अयच्छत्
5. नृपतिरपि = नृपतिः
+ अपि
6. सर्वेषामदृश्य = सर्वेषाम् + अदृश्य
7.
वार्ताऽन्या = वार्ता + अन्याः
8. राज्यभङ्गस्ते
= राज्यभङ्गः + ते
9. गतिर्गन्तव्या = गतिः + गन्तव्या
10. इत्युक्त्वा
= इति + उक्त्वा
11.
नेदानीं = न + इदानीं
12. प्रीतास्मि = प्रीता + अस्मि
७. अधोलिखितानि कथनानि कथायाः
घटनानुसारं लिखत-
(क) सर्वं
दृष्ट्वा राजा शूद्रकः अपि सर्वस्वसमर्पणार्थं सिद्धः अभवत्।
(ख) पितुः
वार्तां श्रुत्वा शक्तिधरः प्रसन्नतया स्वस्य समर्पणार्थं सिद्धः अभवत्।
(ग) प्रातः राजा
वीरवरम् अपृच्छत् ‘ह्यः रात्रौ किम् अभवत्”?
(घ) वीरवरो गृहं
गत्वा पत्नीं पुत्रं पुत्रीञ्च प्राबोधयत्, सर्वां च
वार्ताम् अकथयत्।
(ङ) वीरवरेण
उक्तम् – स्वामिन्! न कापि वार्ता । सा नारी अदृश्या अभवत्।
(च) भगवती
प्रसन्ना अभवत् । भगवत्याः कृपया सर्वे जीवितवन्तः।
(छ) वीरवरः
परिवारेण सह सर्वस्वसमर्पणम् अकरोत
(क)
सर्वं दृष्ट्वा राजा शूद्रकः अपि सर्वस्वसमर्पणार्थं सिद्धः अभवत्।
उत्तरम् :
(क) वीरवरो गृहं गत्वा पत्नीं
पुत्रं पुत्रीञ्च प्राबोधयत्, सर्वां च
वार्ताम् अकथयत्।
(ख) पितुः वार्तां श्रुत्वा शक्तिधरः
प्रसन्नतया स्वस्य समर्पणार्थं सिद्धः अभवत् ।
(ग) वीरवरः
परिवारेण सह सर्वस्वसमर्पणम् अकरोत्।
(घ) सर्वं दृष्ट्वा राजा शूद्रकः अपि सर्वस्व
समर्पणार्थं सिद्धः अभवत्।
(ङ) भगवती प्रसन्ना अभवत्। भगवत्याः कृपया
सर्वे जीवितवन्तः।
(च)
प्रातः राजा वीरवरम् अपृच्छत् “ह्यः रात्रौ किम् अभवत्”?
(छ) वीरवरेण उक्तम् – स्वामिन् ! न कापि
वार्ता । सा नारी अदृश्या अभवत्।