संन्निमित्ते वरं त्यागः – क

  

 

सन्निमित्ते वरं त्यागः (क-भागः)

अभ्यासात् जायते सिद्धिः (पृष्ठ 118–122)

१. पाठम् आधृत्य उदाहरणानुगुणं लिखत ‘आम्’ अथवा ‘न’-
यथा –
किं राज्ञः शूद्रकस्य नगर्या : नाम शोभावती आसीत्? – आम्
किं वीरवरः अनेकशास्राणां ज्ञाता आसीत् ? –
(क) किं वीरवरः राजपुत्रः आसीत्? ______________
उत्तरम् :   आम्

(ख) ” किं ते वर्तनम् ” ? इति किं शूद्रक : अपृच्छत्? ____________
उत्तरम् :  आम्

(ग) किं वीरवरं राज्ञः समीपे दौवारिकः अनयत्? ______________
उत्तरम् :  आम्

(घ) किं राजा शूद्रक : राजपुत्रं वीरवरं साक्षात् दृष्ट्वा एव वृत्तिम् अयच्छत् ? _--
उत्तरम् :  

(ङ) किं वीरवरः स्ववेतनस्य चतुर्थं भागम् एव पत्न्यै यच्छति स्म ? ____
उत्तरम् :  आम्

(च) किं करुण – रोदन – ध्वनिं राजा श्रुतवान् ? ______________
उत्तरम् :  आम्

(छ) किं करुणरोदनध्वनिः दिवसे श्रुतः आसीत् ? ______________
उत्तरम् : 

(ज) किं राजलक्ष्म्या उक्तः उपायः अतीव दुःसाध्यः आसीत्? ___________
उत्तरम् :    आम्

(झ) किं भगवती सर्वमङ्गला उपायं संसूच्य शीघ्रमेव अदृश्या अभवत्? _____
उत्तरम् :    आम्।

२. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-
(क) शूद्रकः कीदृशः राजा आसीत् ?
उत्तरम् : शूद्रकः पराक्रमी नानाशास्त्रविद् राजा आसीत्।

(ख) वीरवरः कस्य समीपं गन्तुम् इच्छति स्म ?
उत्तरम् :वीरवरः राज्ञः समीपं गन्तुम् इच्छति स्म ।

(ग) राज्ञः शूद्रकस्य ‘का ते सामग्री?’ इति प्रश्नस्य उत्तरं वीरवरः किम् अयच्छत्?
उत्तरम् : वीरवरः अवदत्- मम द्वौ बाहू खड्गश्च मम सामग्री अस्ति।

(घ) वीरवरः स्वगृहं कदा गच्छति स्म ?
उत्तरम् : यदा राजा आदिशति, तदा वीरवरः गृहं गच्छति स्म ।

(ङ) वीरवरः स्ववेतनस्य अर्धं केभ्यः यच्छति स्म ?
उत्तरम् : वीरवरः स्ववेतनस्य अर्धं देवेभ्यः यच्छति स्म।

(च) राजलक्ष्मीः कुत्र सुखेन अवसत् ?
उत्तरम् :राजलक्ष्मी राज्ञः भुजच्छायायां सुखेन अवसत्।

(छ) राजलक्ष्म्याः दुःखस्य कारणं श्रुत्वा बद्धाञ्जलिः वीरवरः किम् अवदत् ?
उत्तरम् : वीरवरः अवदत् – अस्ति अत्र राज्ञः जीवनस्य कश्चित् उपाय:|

३. उदाहरणानुसारं निम्नलिखितानि वाक्यानि अन्वयरूपेण लिखत-
यथा – वृत्त्यर्थमागतो राजपुत्रोऽस्मि तस्मान्नय मां स्वामिनः समीपम् ।
(अहं) राजपुत्रः वृत्त्यर्थम् आगतः अस्मि, तस्माद् मां स्वामिनः समीपं नय ।

(क) आसीत् शोभावती नाम काचन नगरी।
उत्तरम् : शोभावती नाम काचन नगरी आसीत् ।

(ख) प्रतिदिनं सुवर्णशतचतुष्टयं देव !
उत्तरम् :  देव! प्रतिदिनं सुवर्णंचतुष्टयम् ।

(ग) देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथममवगम्यतां स्वरूपमस्य वेतनार्थिनो राजपुत्रस्य, किमुपपन्नमेतत् वेतनं न वेति ।
उत्तरम् : देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथमम् अस्य वेतनार्थिनः राजपुत्रस्य स्वरूपम् अवगम्यताम्। किम् एतत् वेतनम् उपपन्नं न वेति।

(घ) क्रन्दनमनुसर राजपुत्र !
उत्तरम् :  राजपुत्र ! क्रन्दनम् अनुसर।

(ङ) अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना ।
उत्तरम् :  अथ मन्त्रिणां वचनेन नरपतिना असौ राजपुत्रः वीरवरः ताम्बूलदानेन नियोजितः ।

(च) नैष गन्तुमर्हति राजपुत्र एकाकी सूचिभेद्ये तिमिरेऽस्मिन् ।
उत्तरम् : अस्मिन् सूचिभेद्ये तिमिरे एवः राजपुत्रः एकाकी गन्तुं न अर्हति ।

(छ) भगवति ! अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति, सुचिरं जीवति च स्वामी?
उत्तरम् :   भगवति । अस्ति अत्र कश्चिद् उपाय : ? येन इह भगवत्याः पुनः चिरवासो भवति स्वामी च सुचिरं जीवति ।

(ज) तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् ।
उत्तरम् :  तदा राजा शूद्रकः पुनः वर्षाणां शतं जीविष्यति ।

४. उदाहरणानुगुणं पाठगतानि पदानि अधिकृत्य
रिक्तस्थानानि पूरयत-
यथा- अथैकदा = अथ + एकदा
वृत्त्यर्थम् = वृत्ति + ______________
उत्तरम् :  वृत्त्यर्थम् = वृत्ति + अर्थम्

कस्मादपि = ______________ + अपि
उत्तरम् :  कस्मादपि = कस्मात् + अपि

कोऽपि = कः + ______________
उत्तरम् :   कोऽपि = कः + अपि

राजपुत्रोऽस्मि = ______________ + अस्मि
उत्तरम् :  राजपुत्रोऽस्मि = राजपुत्र: + अस्मि

यथेष्टम् = यथा + ______________
उत्तरम् :  यथेष्टम् = यथा + इष्टम्

वेतनार्पणेन = वेतन + ______________
उत्तरम् :  वेतनार्पणेन = वेतन + अर्पणेन

तदालोक्य = ______________ + आलोक्य
उत्तरम् :  तदालोक्य = तद् + आलोक्य

ततोऽसौ = ततः + ______________
उत्तरम् :  ततोऽसौ = ततः + असौ

वर्त्तनार्थिनो = ______________ + अर्थिनः
उत्तरम् :  वर्त्तनार्थिनो = वर्तन + अर्थिनः

तदवशिष्टं = ______________ + अवशिष्टम्
उत्तरम् :  तदवशिष्टं = तद् + अवशिष्टम्

राजदर्शनादनन्तरं = राजदर्शनात् + ______________
उत्तरम् : राजदर्शनादनन्तरं = राजदर्शनात् + अनन्तरम्

वेति = ______________ + इति
उत्तरम् :  वेति = वा + इति

राजलक्ष्मीरुवाच = राजलक्ष्मीः + ______________
उत्तरम् :  राजलक्ष्मीरुवाच = राजलक्ष्मीः + उवाच

चार्द्धं = ______________ + अर्धम्
उत्तरम् :  चार्द्धं = च + अर्धम्

बहिर्नगरादालोकिता = बहि: + ______________ + आलोकिता
उत्तरम् :   बहिर्नगरादालोकिता = बहिः + नगराद् + आलोकिता

कापि = ______________ + अपि
उत्तरम् :   कापि = का + अपि

प्रत्युवाच = प्रति + ______________
उत्तरम् :  प्रत्युवाच = प्रति + उवाच

राजलक्ष्मीरस्मि = ______________ + अस्मि
उत्तरम् :   राजलक्ष्मीरस्मि = राजलक्ष्मीः + अस्मि

स्थास्यामीति = स्थास्यामि + ______________
उत्तरम् :   स्थास्यामीति = स्थास्यामि + इति

भुजच्छायायां = ______________ + छायायाम्
उत्तरम् :   भुजच्छायायां = भुज + छायायाम्

अस्त्यत्र = अस्ति + ______________
उत्तरम् :   अस्त्यत्र = अस्ति + अत्र

कश्चिदुपायो = ______________ + उपायः
उत्तरम् :    कश्चिदुपायो = कश्चिद् + उपायः

५. अधोलिखितेषु वाक्येषु रक्तवर्णीयपदानि केभ्यः प्रयुक्तानि इति उदाहरणानुगुणं लिखत-
यथा- अहं भवतः सेवायां नियोजितः ।
(क) ततः असौ तद्रोदनस्वरानुसरणक्रमेण प्रचलितः ।
उत्तरम् :   वीरवराय

(ख) तत् अहम् अपि गच्छामि पृष्ठतोऽस्य ।
उत्तरम् :    राज्ञे

(ग) चिरम् एतस्य भुजच्छायायां सुमहता सुखेन निवसामि ।
उत्तरम् :   राज्ञे

(घ) सा चातीव दुःसाध्या।
उत्तरम् :  प्रवृत्ति (उपायः)

(ङ) किं ते वर्तनम्?
उत्तरम् :    वीरवराय

६. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत-
NCERT Class 8 Sanskrit Chapter 10 Question Answer Solutions सन्निमित्ते वरं त्यागः (क-भागः) 1

(क) राजलक्ष्मीः वदति यत् यदि वीरवरः स्वस्य सर्वप्रियं वस्तु त्यजति तदा सा पुनः शूद्रकस्य समीपे स्थास्यति।

उत्तरम्: परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः।

       परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम्॥

(ख) राजा शूद्रकः प्रथमं वीरवरस्य वृत्त्यर्थं प्रार्थनां न स्वीकरोति।

उत्तरम्: कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत्।

       पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति॥

(ग) एकदा कोऽपि वीरवरः नाम राजपुत्रः वृत्तिं प्राप्तुं राज्ञः शूद्रकस्य समीपं गच्छति।

उत्तरम्: कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।

      एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥

(घ) सः तस्य कर्तव्यनिष्ठां साक्षात् पश्यति।

उत्तरम्: यथा छायातपौ नित्यं सुसंबद्धौ परस्परम्।

      एवं कर्म च कर्ता च संश्लिष्टावितरेतरम्॥

(ङ) राजा मन्त्रिणां मन्त्रणया वीरवराय वृत्तिं यच्छति।

उत्तरम्: कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत्।

       पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति॥

 

७. अधोलिखितानां वाक्यानां पदच्छेदं कुरुत-

यथा – अथैकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत्।
अथ एकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मात् अपि देशात् राजद्वारम् उपागच्छत्।

(क) वृत्त्यर्थमागतो राजपुत्रोऽस्मि ।
उत्तरम् :   वृत्त्यर्थम् आगतः राजपुत्रः अस्मि

(ख) अथैकदा कृष्णचतुर्दश्यामर्धरात्रे स राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन।
उत्तरम् :   अथ एकदा कृष्णचतुर्दश्याम् अर्धरात्रे सः राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन।

(ग) तदहमपि गच्छामि पृष्ठतोऽस्य निरूपयामि च किमेतदिति ।
उत्तरम् : तत् अहम् अपि गच्छामि पृष्ठतः अस्य निरूपयामि च किम् एतत् इति ।

(घ) अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति ।
उत्तरम् : अस्ति अत्र कश्चित् उपायः येन भगवत्याः पुन: इह चिरवासः भवति ।

(ङ) एकैवात्र प्रवृत्तिः सा चातीव दुःसाध्या।
उत्तरम् : एका एव अत्र प्रवृत्तिः सा च अतीव दुःसाध्या।

 


Popular posts from this blog

Learner's Diary

भारतीय ज्ञान परंपरा ओलंपियाड 2025 Indian Knowledge System Olympiad 2025