वन्दे भारतमातरम् PRASHNOTTAR
"वन्दे भारतमातरम्”
भाग 1: एकपदेन या पदद्वयेन उत्तर
1.
(क) पर्वतराजः कः ? – हिमालयः
2.
(ख) समुद्रः कस्याः चरणौ प्रक्षालयति ? – भारतमातुः
3.
(ग) त्रिवर्णयुक्तः ध्वजः कुत्र विलसति ? – भारतमातुः हस्ते
4.
(घ) ध्वजस्थितः केशरवर्णः अस्मान् किं वक्तुं प्रेरयति ? – जयतु
सैनिकः
5.
(ङ) कृषकबान्धवाः भारतभूमिं कैः सिञ्चन्ति ? – स्वेदबिन्दुभिः
6.
(च) केषां धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति ? – वैज्ञानिकानाम्
7.
(छ) सूर्यः कं विना नित्यं सञ्चरति ? – विरामम्
भाग 2: उत्तर
1.
पवित्राः
नद्यः का: ?
उत्तर: गङ्गा, यमुना, सरस्वती, ब्रह्मपुत्रः, गोदावरी, नर्मदा, कावेरी, कृष्णादयः
पवित्राः नद्यः प्रवहन्ति।
2.
विविधेभ्यः
प्रदेशेभ्यः जनाः किमर्थम् आगच्छन्ति ?
उत्तर: तीर्थक्षेत्राणां
धूलिं ललाटे स्थापयितुं विविधेभ्यः प्रदेशेभ्यः असंख्याः जनाः आगच्छन्ति।
3.
धर्मचक्रं
कं भावं बोधयति ?
उत्तर: धर्मचक्रं
‘चलनीयं कर्तव्यपथे वै न विरम सततं चल’ इति भावं बोधयति।
4.
कृषकबान्धवानां
परिश्रमेण भारतभूमिः कथं सञ्जाता?
उत्तर: कृषकबान्धवानां
परिश्रमेण एव भारतभूमिः हरितवर्णमयी, समृद्धा, सस्यश्यामला
च सञ्जाता।
5.
विज्ञानस्य
केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम् ?
उत्तर: अणुशास्त्रम्, सङ्गणकशास्त्रम्, चिकित्साशास्त्रम्, अन्तरिक्षशास्त्रम्, आयुधशास्त्रम्
इत्यादिषु विज्ञानस्य क्षेत्रेषु भारतीयैः शक्त-यशः प्राप्तम् अस्ति।
6.
अन्ते
सर्वे किं गीतं गायन्ति ?
उत्तर: वयं
बालका भारतभक्ताः, वयं बालिका भारतभक्ताः। वयं हि सर्वे भारतभक्ताः। पृथ्वीं स्वर्गं जेतुं
शक्ताः।