संस्कृत छात्र प्रतिज्ञा
केंद्रीय विद्यालय छात्र प्रतिज्ञा
भारतम् अस्माकं देशः। वयं सर्वे भारतीयाः |परस्परं भ्रातरो भगिन्यश्च। अस्माकं देशः| प्राणेभ्योपि प्रियतरः अस्ति। अस्य समृद्धौ |विविधसंस्कृतौ च |वयं गौरवम् अनुभवामः। वयम् अस्य |सुयोग्या अधिकारिणो भवितुं| सदा प्रयतमाना भविष्यामः। वयं स्वपित्रोः| शिक्षकाणां गुरूणां च |सदैव सम्मानं करिष्यामः |सर्वैश्च सह| शिष्टतया व्यवहारं करिष्यामः। वयं स्वदेशं देशवासिनश्च |प्रति विश्वासभाजः। तेषां कल्याणे समृद्धौ च |अस्माकं सुखं निहितम् अस्ति।
जयतु भारतम्